निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
'कर्त्तव्यम्' इति पदे कः प्रत्ययः-

  • 1

    क्त

  • 2

    क्तवतु

  • 3

    तव्यत्

  • 4

    अनीयर्

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book