निर्देश- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत ।
प्रकृतिः मनुष्यस्य उपकारिणी । मनुष्यैः सह तस्याः शाश्वत: सम्बन्धः । सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति । पशवः पक्षिण: वनस्पतयः च तस्याः एव अङ्गानि । निराशा: असहायाः जनाः तस्याः एव आश्रयं प्राप्नुवन्ति । सा स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति । सूर्य: चन्द्रः च तस्याः नेत्रे ।शस्य-श्यामला एषा भूमिः । विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा । सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्य: अयं जनः कृतज्ञतां विहाय असाधुसेवितं पन्थानं गच्छति, विविधानिच कष्टानि च अनुभवति । नरः शाश्वतं सुखं वाञ्छतिचेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति ।
  का आत्मानं विविधरूपेषु प्रकटयति-

  • 1

    निराशा

  • 2

    प्रकृति:

  • 3

    शोभा

  • 4

    उपकारिणी

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book