दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
 ‘परिवृता’ पदे प्रत्यय: अस्ति

  • 1

    तल्

  • 2

    कत्वा

  • 3

    क्त

  • 4

    क्तवतु

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book