संकेतः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तर चित्वा लिखतः पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।            अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्ध भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।          नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् | इत्यादयो विविधलाभाः भवन्ति। 'बन्धा:' इति पदे किं वचनम् ?

  • 1

    बहुवचनम्

  • 2

    श्रृगालवचनम्

  • 3

    एकवचनम्

  • 4

    द्विवचनम्

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book