निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तर चित्वा लिखत-
वृद्धः पिता स्वपुत्रान् कृषिकर्मणः सञ्चालनाय भूयोभूयः प्रेरयति किन्तु सर्वेऽपि अलसाः पुत्राः न शृण्वन्ति। एकदा स वार्धक्यजनितेन रोगेण ग्रस्तः शय्यासीनो जातः । सः कलहायमानेषु पुत्रेषु सङ्घबद्धतायाः महत्त्वं बोधनाय उपायमचिन्तयत् । सर्वानपि पुत्रान् आहूय स एकस्मै सुबद्धं दण्डचतुष्टयं दत्वा अवदत्-त्वमेनं भञ्जय स कथमपि भङ्कतुं नाशक्नोत् । तदा अपरः पुत्रः तथैव आदिष्टः । सोऽपि तद्दण्डचतुष्टयं भड्क्तु समर्थो न जातः। इयमेव दशा अपरद्वयोः पुत्रयोः अपि अभवत् । तदा वृद्धः पिता सुबद्धं दण्डचतुष्टयं निर्बध्य एकैकं दण्डं पुत्रेभ्यः दत्तवान् । तं दण्डं चोटयितुं स सर्वानपि आदिष्टवान् । सर्वे पुत्राः स्वस्वहस्तस्थितं दण्डं भक्तुं समर्थाः अभवन् । तदा पिता  थितवान् यदि यूयं पृथक् पृथक् तिष्ठथ तदा कश्चित् शत्रुः युष्मान् एकैकान् विनाशयिष्यति । यदि यूयं सर्वे मिलित्वा सुबद्धाः तिष्ठथ तदा कोऽपि बाह्यजनः युष्मान् विनाशयितुं समर्थः न भविष्यति । तस्मात् दिवसात् सर्वेऽपि चत्वारः पुत्राः स्वस्वविचारान् त्यक्तवा परस्परं मिलित्वा गृहेऽवसन् पितरं च सेवया स्वस्थम् अकुर्वन् ।
स्वपुत्रान् भूयोभूय: क: प्रेरयति ?

  • 1

    माता

  • 2

    वृद्ध पिता

  • 3

    भ्राता

  • 4

    मित्रम्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book