अधोलिखितं गद्यांशं पठित्वा तदाधारित-प्रश्नानां विकल्पात्कोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत-
एकदा दरिद्रेभ्यः दातुं कम्बलाः नृपेण चाणक्याय समर्पिताः । चाणक्यस्य उटजं नगराद् बहिः आसीत् । केचन चौराः कम्बलान् अपहर्तुं चिन्तितवन्तः । ते रात्रौ चाणक्यस्य उटजं प्राविशन् । तत्र अतीव शैत्यम् आसीत् । चाणक्यः कटे सुप्तः आसीत् पार्श्वे कम्बलानां राशिः आसीत् । चौराणाम् आश्चर्यम् । चाणक्यः कम्बलं विना निद्रां करोति। चौराः चौरकर्म न अकुर्वन् ते चाणक्यं प्रबोधितवन्तः । चौराः- चाणक्य महोदय ! पार्श्वे कम्बलानां राशिः। तकालोऽपि वर्तते। तथापि त्वं किमर्थं भूमौ शयनं करोषि? चाणक्यः उक्तवान् -कम्बलाः दरिद्रेभ्यः दानाय नृपेण दत्ताः । श्वः प्रभाते वितरणं करिष्यामि। तेषां उपयोगाय नास्ति ममाधिकारः । अहं विरक्तः सदा तृप्तः । इति श्रुत्वा चौराणां | लज्जा उत्पन्ना। अन्येषां वस्तुनाम् उपयोगेन अधर्मः भवति।
'दरिद्रेभ्य:' इत्यस्मिन पदे का विभक्ति: अनुच्छेदमाधृत्य लिखत-

  • 1

    प्रथमा

  • 2

    द्वितीया

  • 3

    सप्तमी

  • 4

    चतुर्थी

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book