निर्देश – निम्नलिखितं गद्यांश पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि ददातु –
सरदार वल्लभभाई-पटेलस्य जन्म गुजरातप्रान्तस्य करदनामके ग्रामे 31 अक्टूबर, 1875 ईसवीये अभवत्। अस्य प्रारम्भिक-शिक्षा नडियाद-नगरस्य विद्यालये अभवत्। वाक्कील-परीक्षाम् उत्तीर्य अयं विधिशास्त्रस्य अध्ययनाय इंग्लैण्ड-स्थिते मिडिल-टैम्पिलनामके विद्यालये प्रविष्टवान्। 1913 ईसवीये अहमदाबादे वकालतकार्यं प्रारब्धम्। अनन्तरं 1924 ईसवीये अयं वारदोली-ग्रामे स्वराज्य-आश्रमस्य स्थापनां कृतवान्। करविरोधिनम् आन्दोलनं कृषकाणां सहयोगेन च कृतवान्।
स्वकीयैः दृढसिद्धान्तैः अयं ‘लौहपुरुषः’ इति नाम्ना विखयातः अभवत्। प्रायशः 600 परिमितानि राज्यानि (रियासत) अत्र भारते आसन्। तेषां विलयकार्ये अस्य महाभागस्य महत् योगदानं वर्तते। स्वतन्त्रतायाः आन्दोलने महात्मना गान्धिना सह शरीरेण मनसा च सहयोगी अभवत्। पटेलः अत्यन्त-दूरदर्शी, स्पष्टवक्ता च आसीत्। अतः भारतस्य प्रथमः उप-प्रधानमंत्री अभूत्। सरदार वल्लभभाई-पटेलस्य जन्म कुत्र अभवत् –

  • 1

    इंग्लैण्डे

  • 2

    अहमदाबादे

  • 3

    करद-ग्रामे

  • 4

    वारदोली-ग्रामे

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book