निर्देश : अधोलिखितानि पद्यानि ध्यानेन पठत, पठित्वा च अधोनिर्दिष्टानां प्रश्नानां शुद्धं उत्तरं चिनुत – अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधि वगाह्य स्थितः पृथिव्या इव मानदण्डः।।
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाड्कः।।
आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिद्धाः।।
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्त्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति।
दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम्।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव।
            (कुमारसम्भव – कालिदास) “आल्पवन्ति” इति पदमस्ति –

  • 1

    तिङन्तपदम्

  • 2

    अव्ययपदम्

  • 3

    कृदन्तपदम्

  • 4

    तद्धितपदम्

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book