निर्देश – गद्यांशद्वयं पठित्वा पृष्टानां प्रश्नानां शुद्धोत्तरस्य क्रमाङ्कं चिह्नितं कुरुत। प्रदूषणसमस्यायाः विषये अद्य सम्पूर्णः विश्वः चिन्तातुरः अस्ति, संयुक्तराष्ट्रसंघेन अपि अस्मिन् विषये चिन्ता प्रकटिता। प्रदूषणनिवारणस्य उपायेषु ‘वृक्षारोपणं’ सर्वोत्कृष्टं मतम्। प्रदूषण-समस्या तदैव उपस्थिता यदा मानवेन स्वार्थसिद्धये वृक्षकर्तनम् आरब्धम्। प्रकृतौ सन्तुलनस्थापनार्थ वृक्षरक्षणं वृक्षारोपणं च आवश्यकम्। इदं सन्तुलनम् एव भूक्षरणात् अतिवृष्टेः अनावृष्टेः च रक्षितुं समर्थम्। घूमानां विषाक्तवायूनां च शोषणस्य सामर्थ्य वृक्षेषु एव। एतेन एव पृथिवीं शस्यश्यामलां कर्तुं शक्यते श्रीमद्भागवते अपि भगवान् कृष्णः वृक्षाणां महत्वं बलरामं प्रति निवेदितवान्। वृक्षारोपणेन का सम्भवा ?

  • 1

    वृक्षारोपणेन वृष्टिः सम्भवा

  • 2

    वृक्षारोपणेन पृथिवीं शस्यश्यामलां कर्तुं सम्भवा

  • 3

    वृक्षारोपणेन नष्टप्रायाणां पशुपक्षिणां जातीनां च रक्षा सम्भवा

  • 4

    वृक्षारोपणेन उष्णाधिक्यात् रक्षा सम्भवा

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book