निर्देश – अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र द्विशतं छात्राः गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां भोजनदिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्। एकदा संस्थाधिकारिणः छात्रेभ्यः एकं वैद्यं प्रेषितवन्तः। सः त्रीन् मासान् तत्र अवसत्। किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्सायै न आगच्छत्। वैद्यराजः प्रधानाचार्यम् अपृच्छत् – किम् अत्र कोऽति रोगी न भवति ? प्रधानाचार्यः विहस्य अवदत् – वैद्यराज ! अस्य एकं रहस्यम् अस्ति। अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम् अनुभवन्ति। यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतत् एव एतेषां स्वास्थ्यस्य रहस्यम्। भवान् जानाति एवं यत् स्वस्थाः नराः औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हस्त्वि अवदत् – अत्र मम उपयोगः न अस्ति। अहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः। कति छात्राः गुरुकुले पठन्ति स्म ?

  • 1

    200

  • 2

    202

  • 3

    102

  • 4

    002

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book