निर्देश : अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पोत्तरेषु समुचितम् उत्तरं चित्वा लिखत।
    अस्ति वाराणस्यां कर्पूरपटको नाम रजकः। स च एकदा अभिनववयस्कया वध्वा सह चिरं केलिं कृत्वा निर्भरमालिङ्ग्य प्रसुप्तः। तदनन्तरं तद्गृहद्रव्याणि हर्तुं चोरः प्रविष्टः। तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति कुक्कुरश्च उपविष्टः अस्ति। अथ गर्दभः श्वानमाह- सखे, भवतस्तावदयं व्यापारः। तत् किमिति। त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ? कुक्कुरो ब्रुते-भद्र मम नियोगस्य चर्चा त्वया न कर्तव्या। त्वमेव किं न जानासि यथा तस्य अहर्निशं गृहरक्षां करोमि। यतोऽयं चिरान्निवृत्तो ममोपयोगं न जानाति। तेनाधुनापि मम आहारदाने गर्दभो ब्रूते श्रृणु रे बर्बर। याचते कार्यकाले यः स किं भृत्यः स किं सुह्रत् ? कुक्कुरो ब्रूते – श्रुणु तावत्।
        भृत्यान्संभाषयेद्यस्तु कार्यकाले स किं प्रभुः
        यतः- आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने।
        पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः।।
    ततो गर्दभः सकोपमाह – अरे दुष्टमते ! पापीयांस्त्वं यद्विपत्तौ स्वामिकार्योपेक्षां करोषि। भवतु तावत्। यथा स्वामी जागरिष्यति तन्मया कर्तव्यम्। यतः
        पृष्ठतः सेवयेदर्क जठरेण हुताशनम्।
        स्वामिनं सर्वभावेन परलोकममायया।।
        इत्युक्त्वा उच्चैः चीत्कारशब्दं कृतवान्। ततः रजकः तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपात् उत्थाय गर्दभं लगुडेन ताडयामास।
अतोऽहं ब्रवीमि –
        पराधिकारचर्चां यः कुर्यात् स्वामिहितेच्छया।
        स विषीदति चीत्कारात् गर्दभः ताडितो यथा।। ‘आदर’ इत्यस्य विरुद्धशब्दः –

  • 1

    अनादरः

  • 2

    कोपः

  • 3

    सम्मानः

  • 4

    दुष्टता

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book