अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। ‘क्त्वा’ प्रत्ययान्तशब्दः कः ?

  • 1

    चलामि

  • 2

    श्रुत्वा

  • 3

    स्वयम्

  • 4

    कर्तुम्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book