सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्ककोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
    कस्मिंश्चिचद्वने द्वौ वृषभौ आस्ताम्। हरितानि शष्पाणि भक्षयन्तौ तौ परां पुष्टिमगच्छताम। तौ परस्परं सुहृदावास्तां सहैव चातिष्ठताम् तास्मिन्नेव वने एकः सिंहोऽप्यासीत्। सः सदैवैतो वृषभौ दृष्टवा चिन्तयति स्म यद्यहमेतयोः मासं लभेय, तर्हि सुखं भवेत्। सानन्दं च मम कालः गच्छेत्”।
    परं सिंहः एकमपि वृषभं मारयितुं समर्थः नासीत। यतः तौर सदैव सहैवातिष्ठताम्। यदि कदाचित् सिंहः एकं प्रहर्तुं कामयेत् , तर्हि द्वितीयः सिंहमेव स्वश्रृंगेण विदारयितुं सिद्धः भवेत्। अतः सः तौ प्रहर्तुमसमर्थ आसीत्।
    एकदा सिंहेन मनसि चिन्तितम – “यद्यहमेतयोः भेदमुत्पादयामि तर्ह्रावश्यमहं सफलो भविष्यामि”। इति विचिन्तयन् स एकदा तौ वृषभौ श्रृंभाग्यां परस्परं स्नेहेन क्रीडन्तावपश्यत्। यथाकालं सः तयोः समीपमगच्छत् एकं वषभं चावदत् – “मूर्ख ! अतीव दुर्बलाऽसि त्वं, यद् द्वितीयस्त्वो पश्चादयसारयति।”
    सिंहस्य वाक्यं श्रुत्वा प्रथमः वृषभः द्वितीयं बलेन अपाकरोत्। तदा सिंहस्तमवदत् – “मूर्ख ! त्वन्ड अतीव दुर्बलः। एकेतैव प्रहारेण पश्चात् गतोऽसि।
    एवं सिंहः तौ यदा प्रोदसाहयत् , तदा तौ परस्परं सत्यमेव योद्धुमारभेताम्। तदैको वृषभे द्वितीयेन तथा प्रहृतः यथा तस्य वक्षसः रुधिरं अस्त्रवत। पीडया च सः दूरमधावत्।
    एवं तयोर्भेदः उत्पन्नोऽभवत्। कोऽपि द्वितीयेन सह नातिष्ठत् न चावदत्। सदैव च दूरेऽतिष्ठाम्। एकदा सिंह एकं वृषभमेकाकिनं चरन्तमपश्चत्। दृष्ट्वैव च सः तं प्रारहत् , नखैः विदार्य चाभक्षयत्।
    तदनन्तरं सः द्वितीयमपि वृषभं तथैव हत्वाऽभक्षयत्। एवं द्वावेव सुहृदौ भेदेन नष्टौ। सत्यमेव कथ्यते –
“संधे शक्तिः, भेदे नाशः।” कस्मिंश्चिद्वने द्वौ कौ आस्ताम् ?

  • 1

    गजौ

  • 2

    श्रृगालौ

  • 3

    वृषभौ

  • 4

    चक्षुषी

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book