सूचनाः अधोलिखितं गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकस्मिन्नगरे धनधान्यसम्पन्न आसीत् एकः कृषकः। तस्य प्राड्गणे सुपुष्टा बहुदुग्धदा कपिला नाम धेनुः बद्धा आसीत। एकदा विभावर्यां सा धेनुः केनापि चौरेण हृता। अथ सस्त्र कृषकः अन्यां धेनुं क्रेतुं हट्टदिवसे सुदूरवर्ति किमपि नगरम् अगच्छत्। तत्र तु विक्रयार्थमानीतासु धेनुषु स्वकीया धेनुः अनेन दृष्टवैवाभिज्ञाता। ततः सपदि एव धेनोः समीपं गत्वा उच्चैः अभाषत- “भोः जनाः मदीया इयं धेनुः अत्र तिष्ठति। चत्वारि दिनान्यतीतानि मम गृहात् अस्याः मुषितायाः।”
ततः तस्याः धेनोः मिथ्यास्वामी पाटच्चरः दाक्षिण्यगर्भया वाण्या अब्रवीत् – “ भद्रमुख, मोहमापादिता ते दृष्टिः। इदानीं संवत्सराप्यधिकं कालं एषा धेनुः मत्सकाशे वर्तते। कदाचित् आकारसद्दशेन त्वदीयधेनोः अनुकुर्यात्। परं मदीया एव इयं गौरित्यत्र नास्ति संदेहः” इति।
एतदाकर्ण्य सः कृषकः सत्वरं तस्याः धेन्वाः अक्षिणी पाणिभ्यां पिधाय तं मिथ्यास्वामिनमभाषत- “यदि इयतः दिवसान् धेनुरियं तव गृहे तिष्ठति तर्हि त्वया परीक्षिता स्यात्। तत् वद कतरेण नेत्रेण काणा इयम्? इति। अपि च केन नाम्ना आहूता सा सत्वरमागच्छति” ? इति। स अपि प्रत्यग्रमषितायास्तस्या धेनोः अवयवविशेषान् नावगच्छति। सम्भ्रान्त सः किमपि वक्तव्यमित्यत; ‘वामेन लोचनेन काणा’ इति अगदत्।
कृषकः तं वञ्चयितुं पुनः प्राह, “सखे, सम्यक् विमृश्य एव वद” इर्ति। ततः अधिकमेव संमोहितः सः स्तेनः प्रत्यवदत् – “आं, विस्मृतं खलु मया। न वामेन परं दक्षिणेन एव नेत्रेण काणा ममैषा धेनुः। मया प्रमादात् प्रथमं विपरीतमेवाभिहितम्। वस्तुतः तु दक्षिणम् एव अस्याः चक्षुः विकलम्” इति।
तदनन्तरं सः स्वामी धेनुनयनाभ्यां पाणी अपनीय प्रोच्चैः अगर्जत्, “पश्यत भोः जनाः, पश्यत। अयं पुरुषः चौर्यनिपुणः अनृतवादी च इति सिद्धम् एव इदानीम्। मम धेनुः केनापि नयनेन न काणा। केवलं दुरात्मनः अस्य चौर्यशीलं मिथ्यावादं च व्यक्तीकर्तु मया अयं प्रश्नः कृतः। भवन्त अधुना पश्यन्तु” इति।
“अयि कपिले, आगच्छ, आगच्छ” इति तेन परमस्नेहेनाहूता सा गले रज्जुबद्धापि तं कृषकं प्रति आगन्तुं प्रायतत। सर्वे समीपवर्तिनः जनाः “सम्यव- गृहीतः चौरः” इति निनादमकुर्वन् । स तस्करोऽपि राजपुरुषैः निरुध्य न्यायाध्यक्षस्य पुरतः नीतः। कृषकः स्वीयां धेनुमविन्दत आनन्दितः च अभवत। सर्वे जनाः कृषकस्य चातुर्यं प्रशंसन्। ‘समीपम्’ इति पदस्य कृते को शब्दः प्रयुज्यते ?

  • 1

    सुदूरम्

  • 2

    निकटम्

  • 3

    दूरम्

  • 4

    अतिदूरम्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book