सूचना : अधोलिखितं गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत 
    जीवने अन्नापेक्षया जलस्य अधिकं महत्वमस्ति। अत एव जलस्पापरं नाम ‘जीवनम्’ इति सङ्गच्छते। अस्मांक देशः कृषिप्रधानः। देशस्यौद्योगिकः, आर्थिकः भौतिकः विकासः कृषिमवलम्ब्यैव तिष्ठति। कृषेः विकासाय जलमावश्यक्म। वृष्टिजलेन, नदीजलेन, नदीजलेन, प्रपातजलेन सस्यसम्पन्नाः भवन्ति ते नदीमातृकाः। अस्मांक स्नानाय, पानाय सस्यसेचनाय च नद्यः जलं चितरन्ति। नदीषु तत्र तत्र सेतुं बध्वा जलस्ञ्चयं च कृत्वा जनाः कुल्याद्वारा सञ्चितं जलं सुदूरं नयन्ति। तेन च क्षेत्राणि सिञ्चन्ति। काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी इति प्रार्थना जलस्य महत्वं सूचयति। न हि शक्नुवन्ति जलं बिना जीवितुं तृणान्यपि। तृणादीनि च धेन्वादीनां पशूनामाहाराः भवन्ति।
    प्रायेण नदीतीरेष्वेव महानगराणि विकासमुपगच्छन्ति। नानाप्रकाराः उद्योगाः अपि तत्रैव सीपिताः विकसिताः च। जलमार्गेंण संचारस्य सौकर्यमपि मानवजीवनं सुखमयं करोति। अत एवं नदीत्तटेषु जनानां वासस्थानानि आधिक्येन सन्ति। सर्वप्रकाराणामुद्यौगानां विकासः विद्युतः शक्तिम् अपेक्षते। तां विना कोऽपि उद्योगः अधिकोत्पादनक्षमो लाभपदो वा न भवति। प्रकाशाय तस्याः उपयोगः सर्वविदितः। सा च शक्तिः स्वाभाविकैः कृतकैः या जलप्रपातैः निरायासमुत्पाद्यते। अतः जलं विद्युदुत्पादनेऽपि सहायकं भवति। एवं च नद्यः राष्ट्रजीवनं सर्वसम्पन्नं कुर्वन्ति। अतः भारतीयाः निग्रहे अनुग्रहे च इमाः देवताः मन्यन्ते। पुरातनाः महर्षयस्तु जलस्य महत्त्वं ज्ञातवन्तः आसान अत एव के शिवाः आपः सन्तु इति प्राथयन्त। ‘सर्वविदितः’ पदस्य पर्यायो भवति

  • 1

    सर्वैः ज्ञातः

  • 2

    मया ज्ञातः

  • 3

    त्वया ज्ञातः

  • 4

    मात्रा ज्ञातः

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book