निर्देश ः अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत - कस्मिंश्चिदरण्ये वसति स्म कोऽपि सिंहः। पर्वतस्य गुहायां सः दिवा अस्वपत् रात्रौ च वने इतस्ततः परिभ्रमन् पशूनभक्षयत्। कदाचित् प्रभूतमाहारं कृत्वा अयं सिंहः कस्यचित् वृक्षस्य छायायां सुखेन अस्वपत्। ततः बहवः मूषकाः बिलात् निर्गत्य सानन्दं  सिंहस्य शरीरे अनृत्यन् इतस्ततः। तेन पीडितः सिंहः प्रबुद्धः अभवत्। तं प्रबुद्धं दृष्टवा पलायन्ते सर्वे मूषकाः बिलम्। तेषां कमपि मूषकमगृह्णात् सिंहः करतलेन। तदा सः मूषकः आर्तस्वरेण अवदत् - ‘भो महाराज! त्वं किल पशूनां राजा। प्रसिद्धः तव पराक्रमः। अहं तु क्षुद्रः जन्तुः। मम अपराधं तावत् क्षमस्व। मां मा जहि। मयि दयां कुरु। कदाचिदहं करिष्यामि तव साहाय्यम्। इति। एतद् तस्य आर्तवचनं श्रुत्वा सिंहः तममुञ्चत्। ‘अत्र-तत्र’ इत्यर्थे किम् अव्ययपदं प्रयुक्तम् ?

  • 1

    इतस्ततः

  • 2

    किल्

  • 3

    मा

  • 4

    कदाचित्

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book