अश्रद्धा परमं पापं,
श्रद्धा पापप्रमोचिनी
जहाति पापं श्रद्धावान्,
सर्पो जीर्णामिव त्वचाम्।।(1) दूरेऽपि सज्जनाः भान्ति
हिमवन्नगसन्निभाः।
असन्तो नैव दृश्यन्ते
रात्रिक्षिप्ताः शरा यथा।। (2) भक्तिर्देवे मतिर्धर्मे,
शक्तिस्त्यागे रतिः श्रुतौ।
दया सर्वेषु भूतेषु
स्यान्मे जन्मनि जन्मनि।। (3) आयुष: क्षण एकोऽपि
सर्वरत्नैर्न न लभ्यते।
नीयते स वृथा येन
प्रमाद: सुमहानहो ।। (4) स्वभावो नोपदेशेन,
शक्यते कर्तुमन्यथा।
सुतप्तमपि पानीयं
पुनर्गच्छति शीतताम्।। (5) दुर्जनः सुजनीकर्तुं
यत्नेनापि न शक्यते।
संस्कारेणापि लशुनं
कः सुगन्धीकरिष्यति।। (6) दया सर्वेषु भूतेषु इति कामना कदा पर्यन्तं क्रियते ?

  • 1

    अपरजन्मनि

  • 2

    सर्वस्मिन् जन्मनि

  • 3

    अस्तमिन् जन्मनि

  • 4

    पूर्वजन्मनि

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book