वाग्भटः विख्यातः प्राचीनः वैद्यराजः। सः सिन्धप्रान्ते जन्म अलभत। सः आसीत् पश्चमे शतके। सः सिन्धप्रान्ते जन्म अलभत। सः आसीत् पश्चमे शतके। तेन आयुर्वेदशास्त्रे विपुलं संशोधनं कृतम्। तेन लिखितस्य ग्रन्थस्य नाम – ‘अष्टाङ्गसंहिता’ इति। अद्यापि सः ग्रन्थः प्रमाणभूतः मन्यते। तिबेटतः रामेश्वरपर्यन्तं तस्य कीर्तिः प्रसृता। एतं ग्रन्थम् अधिकृत्य अद्य यावत् 21 भाष्यविवरणग्रन्थाः प्रसिद्धाः सन्ति।
        एकदा धन्वन्तरिः  व्यचिन्तयत् – ‘पृथिवीतले विदयमानानां विविधानां वैद्यानां परीक्षा करणीया’ इति। अतः तेन शुकस्य रुपं धृतम्। सः एकम् एव प्रश्नं त्रिवारम् उच्चार्य वैद्यान् पृष्टवान्। सः प्रश्नः आसीत् – ‘कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?’ (कः आरोग्यसम्पन्नः भवति इत्यर्थः)
       वैद्याः विविधानि उत्तराणि दत्तवन्तः केचन तु सुदीर्घम् उत्तरं दत्तवन्तः। किन्तु कस्यापि उत्तरेण धन्वतरिः न सन्तुष्टः।
       अन्ते शुकः वाग्भटं प्रति आगतः। वाग्भटः स्नानार्थं नदीतीरं गच्छति स्म। शुकरुपधारी धन्वन्तरिः मार्गे स्थितस्य एकस्य वृक्षस्य शाखायाम् उपविष्टः। तेन वाग्भटाय त्रिवारं प्रश्नः कृतः – ‘कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?’
वाग्भटेन ज्ञातं यत् एषः न सामान्यः पक्षी इति। सः पक्षिणं नमस्कृतवान्। पक्षिणे सत्काररुपेण फलानि तेन अर्पितानि।
    शुकः अवदत् – “आदौ उत्तरं दातव्यम्। यदि उत्तरं तृप्तिकरं स्यात् तर्हि एव अहम् उपाहारं स्वीकरिष्यामि” इति।
वाग्भटः क्षणमात्रं चिन्तितवान्। त्रयाणां प्रश्नानाम् एकम् एव उत्तरं सः दत्तवान् – “हितभुक्, मितभुक् उष्णभुक्” इति। तस्य आशयः – आहारः हितकारः मितरुपः उष्णः च भवेत् इति।
    वाग्भटस्य उत्तरेण शुकः सन्तुष्टः अभवत्। सः उपहारं स्वीकृत्य ततः निरगच्छत्। वैद्यानां परीक्षां कर्तुं धन्वन्तरिणा कस्य रूपं धृतम्।

  • 1

    शुन:

  • 2

    कीटस्य

  • 3

    मनुष्यस्य

  • 4

    शुकस्य

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book