सः कश्चन लघुकुटुम्बः। तस्मिन् पितरौ, पुत्रः, पुत्री च आसन्। एकस्मिन् दिने मध्याह्ने पुत्रः भोजनार्थं गृहम् आगतः। माता जलचषक स्थालिकां च संस्थाप्य अन्नं सारं च पर्यवेषयत्। पुत्रः कवलमात्रं खादित्वा जननीम् अगर्हयत् – “अम्ब ! किमिदम् ? सारः सम्पूर्णः लवणमयः। एतत् खादितुं कथं शक्येत ? महां भोजनं मास्तु............”
मातरं भर्त्स्यमानः एव सः कोपेन गृहात् बहिः गतवान्।
    सायं दीपज्वालनसमयः अभवत्। तथापि सः युवा पुत्रः गृहं न आगतः। रात्रौ अष्टवादनसमये आगतः सः हस्तपादं प्रक्षाल्य दूरदर्शनस्य पुरतः आसन्दे उपाविशत्, हस्तेन नियन्त्रकं (रिमोट्) गृहीत्वा।
निमेषाभ्यन्तरे पिता पुत्रस्य समीपम् आगतः। तं दृष्ट्वा पुत्रः चिन्तितवान् – ‘किमिदं पिता मम समीपे एव आगच्छति ! एतावत्पर्यन्तम् एकवारमपि जल्पनादिकं तेन न कृतं मया सह। इदानीं मां गर्हयितुम् एव आगच्छन् स्यात् प्रायः सः।.....’
    परन्तु अवनतवदनस्य पुत्रस्य पार्श्वे उपविशन् पिता प्रावोचत् – “वत्स, भवान् मध्याह्ने भोजनं कृतवान् ननु ?”
“..........”
    “वत्स ! भवन्तम् एव अहं पृच्छामि। भवान् मध्याह्ने भोजनं कृतवान् किम ?”
    “आम् !” – किश्चित् रुक्षतया अवदत् पुत्रः।
    “कुत्र ?” मृदुस्वरेण एव अपृच्छत् पिता।
    “मम सुहृदः माम् उपाहारमन्दिरं नीत्वा भोजनं कारितवन्तः” – किश्चिदपि अविचलितः सन् पुत्रः उक्तवान्।
    “सुष्ठु, पुत्र ! सुष्ठु । भवान् भोजनं कर्तुम् इच्छति चेत् भवता समग्रे अपि विश्वे गृहाणि प्राप्यरेन्। तत्र ते तुभ्यं स्वादु भोजनमपि दद्युः। परन्तु भवतः मात्रे अस्मांक गृहमेव प्रपश्चः। तस्या लोके अहं, भवान्, भवतः अनुजा च एव वसामः। अस्मांक त्रयाणां हितमेव तस्याः लक्ष्यम्। भवता भोजनं न कृतम् इत्यतः सा एतावत्पर्यन्तं बिन्दुमात्रं जलम् अपि न स्वीकृतवती। इतोऽपि तस्याः मनः परितपत् अस्ति – ‘अद्य मया किं कृतम् ! पाकसमये मम अवधानं कुत्र अगच्छत् ? मम अजागरुकताकारणतः सारः लवणमयः जातः । तदर्थं पुत्रः किश्चिदपि न भुक्तवान् । सः कुत्र गतवान् स्यात् ? क्षुत्पिपासानिवारणार्थं सः कीदृशं कष्टम् अनुभूतवान् स्यात् इति न ज्ञायते’ इति” इति उक्तवान् पिता। पितुः हृदयस्पर्शिनीं वाणीं श्रुत्वा पुत्रः आत्मावलोकनम् अकरोत्। ततः सावधानतया उत्थाय शनैः शनैः जनयित्र्याः समीपम् अगच्छत्। सा म्लानवदना खिन्ना च भूत्वा उपविष्टवती आसीत् तत्र।
पुत्रः विनयेन ताम् उपसर्प्य मृदुमधुरेण मन्द्रस्वरेण अकथयत् – “अम्ब ! महती बुभुक्षा मम। किं न परिवेषयसि अविलम्बेन ?” इति। पुत्र: भोजनं न कृतवान् इत्यत: माता कीदृषी आसीत् -

  • 1

    दूरदर्शनं पश्यन्ती आसीत् ।

  • 2

    पुत्रीं पतिं च तर्जयन्ती आसीत्।

  • 3

    सन्तुष्टा सती स्वकार्ये निमग्रा आसीत्।

  • 4

    जलमपि न पीत्वा आसीत्।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book