ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। अलं चिन्तया इति वाक्यस्य अभिप्राय: ________

  • 1

    व्यर्थचिन्तां कुरू

  • 2

    चिन्ता आलङ्कारसदृशी अस्ति

  • 3

    चिन्तां न कुरू

  • 4

    चिन्तां कुरू

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book